|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.54. अध्यायः 054
Mahabharata - Virata Parva - Chapter Topics
सेनामध्ये दुर्योधनमनवलोकयताऽर्जुनेनोत्तरंप्रति तत्पदवीमनु रथयापनचोदना ॥ 1 ॥ तथा बाणाभ्यां द्रोणाद्यभिवादनपूर्वकं ताभ्यामेव कर्णमूले कुशलप्रश्नः ॥ 2 ॥ द्रोणेन तत्कौशलश्लाघनम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-54-0x(3220)(30577)
तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः ।
उपायादर्जुनंस्तूर्णं रथघोषेण नादयन् ॥ 4-54-1(30578)
ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।
दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ 4-54-2(30579)
त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः ।
संनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् ॥ 4-54-3(30580)
राजानं नात्र पश्यामि रथानीके व्यवस्थितम्।
दक्षिणं पक्षमादाय कुरुवो यान्त्युदङ्भुंखाः ॥ 4-54-4(30581)
उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम्।
गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् ॥ 4-54-5(30582)
गवाग्रमभितो गत्वा गाश्चैवाशु निवर्तय ।
यावदेते निवर्तन्ते कुरवो जवमास्थिताः ।
तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो ॥ 4-54-6(30583)
वैशम्पायन उवाच। 4-54-7x(3221)
इत्युक्त्वा समरे पार्थो वैराटिमपराजितः ।
सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ॥ 4-54-7(30584)
ततोऽभ्यवादयत्पार्थो भीष्मं शान्तनवं कृपम्।
द्वाभ्यांद्वाभ्यां तथाऽऽचार्यं द्रोणं प्रथमतः क्रमात् ॥ 4-54-8(30585)
द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्।
ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत्॥ 4-54-9(30586)
महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम् ।
न कश्चिद्योद्भिमिच्छेत न च गुप्तं स्वजीवितम् ।
अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे ॥ 4-54-10(30587)
एतद्ध्वजाग्रं पार्थस्य दूरतः प्रतिदृश्यते।
मेघःक सविद्युत्स्तनितो रोरवीति च वानरः ॥ 4-54-11(30588)
आस्थाय च रथं याति गाण्डीवं विक्षिपन्धनुः ॥ 4-54-12(30589)
अश्वानां स्तनतां शब्दो वहतां पाकशासनिम्।
रथस्याम्बुधरस्येव श्रूयते भृशदारुणः ॥ 4-54-13(30590)
दारयन्निव तेजस्वी वसुधां वासवात्मजः ।
एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः। 4-54-14(30591)
श्रीमान्वदान्यो धृतिमान्तत्करोति च पाण्डवः ॥
इमौ बाणावनुप्राप्तौ पादयोः प्रत्युपस्थितौ । 4-54-15(30592)
रथस्याग्रे निखातौ मे चित्रपुङ्खावजिह्मगौ ॥
इमौ चाप्यपरौ बाणावभितः कर्णमूलयोः । 4-54-16(30593)
संस्पृशन्तावतिक्रान्तौ पृष्ट्वेवानामयं भृशम् ॥
चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः । 4-54-17(30594)
अतीव ज्वलते लक्ष्म्या पाण्डुपुत्रः प्रतापवान् ॥
निरुष्य च वने वामं कृत्वा कर्म सुदुष्करम् । 4-54-18(30595)
अभिवादयते पार्थः पूजयन्मामरिंदमः ॥
अमर्षेण हि संपूर्णो दुःखेन प्रतिबोधितः। 4-54-19(30596)
अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् ॥
द्व्यधिकं दशमुष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च । 4-54-20(30597)
ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः ॥
रथी शरी चारुमाली निषङ्गी शङ्खी पताकी कवची किरीटी। 4-54-21(30598)
खङ्गी च धन्वी च विराजतेऽयं शिखीव यज्ञेषु घृतेन सिक्तः ॥ ॥ 4-54-22(30599)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|